स्तोत्र तरंगिणी
॥ ॐ श्री महागणपतये नमः ॥
1) ॥ सङ्कट नाशन गणेश स्तोत्रम् ॥
प्रणम्य शिरसा देवं गौरीपुत्रं वनायकं ।
भक्तावासं स्मरेन्नित्यं आयुष्कामार्थ सिद्धये ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सपतमं विघ्नराजं च धूम्रवर्णं तथाष्टमं ॥
नवमंफालचन्द्रं च दशमं तु विनायकं ।
एकादशं गणपतिं द्वादशं तु गजाननं ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
नास्ति विघ्न भयं तस्य सर्व सिद्धिं लभेद्ध्रुवम् ॥
-----------------------------------------------------------------------------------
2) ॥ सरस्वती स्तोत्रम् ॥
या कुन्देन्दु तुषारहार धवला या शुभ्र वस्त्रावृता ।
या वीणा वरदण्ड मण्डित करा या श्वेत पद्मासना ॥
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्देवैः सदा पूजिता ।
सा मां पातु सरस्वती भगवती निश्शेष जाड्यापहा ॥
No comments:
Post a Comment